अर्थालंकार: - विशेषोक्ति अलंकार:

 

प्रसिद्धकारणे सति अपि फलस्‍य अभाव: यत्र तत्र विशेषोक्ति अलंकार: ।

सति हेतौ फलाभावे विशेषोक्तिस्‍तथा द्विधा ।

अर्थात् यत्र प्रसिद्धकारणं तु अस्ति किन्‍तु फलस्‍य (कार्यस्‍य) उत्‍पत्ति: न भवति तत्र विशेषोक्ति: भवति ।

विशेष: -

  • विशेषोक्तिरपि द्विधा -
    1. उक्‍तनिमित्‍ता
    2. अनुक्‍तनिमित्‍ता
  • विशेषोक्तिपदस्‍य व्‍युत्‍पत्ति: 'विशेषस्‍य, कारणेषु सत्‍सु, अपि कार्याभावरूपस्‍य उक्ति: विशेषोक्ति:'
  • एष: अलंकार: विभावना अलंकारस्‍य विलोम अस्ति ।
  • प्रसिद्धकारणेषूक्‍तेषु सत्‍सु फलावच: कार्याभाववचनं विशेषोक्ति:     - नागेश्‍वरी टीका

उदाहरणम् -

धनिनोपि निरुन्‍मादा युवानोपि न चंचला

प्रभवोयिप्रमत्‍तास्‍ते महामहिमशालिन: ।।

प्रस्‍तुतोदाहरणे प्रसिद्धकारणानि 'धनं, यौवनं, प्रभुत्‍वं च' उपस्थितानि सन्ति चेदपि उन्‍माद:, चंचलता, प्रमादरूपकार्याणाम् अभाव: प्राप्‍यते महामहिमशालित्‍वात् ।  अतएव विशेषोक्ति अलंकार: अस्ति ।

इति ........

टिप्पणियाँ