दुरूहक्रियाणां वर्णनं स्वभावोक्ति: कथ्यते ।
स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ।
अर्थात् यानि कार्याणि (बालानां पशूनां वा) सामान्यरूपेण ज्ञातुं शक्यं न भवन्ति केवलं कवि: तेषाम् अनुभवज्ञानेन स्वरूपवर्णनं करोति तत्र स्वभावोक्ति अलंकार: भवति ।
व्युत्पत्ति: - स्वभावस्य उक्ति:
उदाहरणम् -
लांगूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या-
मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विक्रमेण ।
स्फूर्जत्फुत्कारघोर: प्रतिदिशमखिलान्द्रावयन्नेषजन्तून्
कोपाविष्ट: प्रविष्ट: प्रतिवनमरुणोच्छूनचक्षुस्तरक्षु: ।।
प्रस्तुतोदाहरणे क्रोधितस्य व्याघ्रस्य विभिन्नानां क्रियाणां वर्णनं कृतमस्ति अत: स्वभावोक्ति अलंकार: अस्ति ।
इति .........
1 टिप्पणियाँ
अति सुन्दर बहुत ही बढ़िया प्रस्तुति...
जवाब देंहटाएंसार्थक
दिनेश पारीक
मेरी नई रचना
कुछ अनकही बाते ? , व्यंग्य: माँ की वजह से ही है आपका वजूद:
http://vangaydinesh.blogspot.com/2012/03/blog-post_15.html?spref=bl