भारतवर्षे नवरात्रिपर्वं शक्ते: आराधनपर्वम् इति प्रसिद्धमस्ति । अस्मिन् पर्वे भगवतिदुर्गादेव्या: नवरूपाणां पूजनार्चनं भवति । एतत् पर्वं भारतीयपरम्परायां नारीगरिमा कियति इति दर्शयति । वर्षे चतुर्वारं नवरात्रि: मोदयते । एते चैत्र, आषाढ़, आश्विन एवं च माघ मासस्य शुक्ल प्रतिपदात: नवमी पर्यन्तं भवति । किन्तु प्रसिद्धि: तु चैत्राश्विनमासयो: एव अधिकमस्ति । एतानि यथाक्रमेण वासन्तीय शारदीय नवरात्रि: च कथ्यन्ते ।
- शारदीय नवरात्रि:
शारदीयनवरात्रि: अश्विनप्रदिपदात: आरभ्यते । अस्य पर्वस्य अति महत्वमस्ति विद्यते । अस्मिन् एव पर्वे गरबानृत्यायोजनं भवति ।
- चैत्र अथवा वासन्ती नवरात्रि:
चैत्र अथवा वासन्ती नवरात्रे: प्रारम्भ: चैत्र मासस्य शुक्लपक्षस्य प्रतिप्रदात: भवति । पूजार्चनस्य दृष्ट्या इदं पर्वं विशिष्टमेवास्ति ।
नव दिनानि उत रात्रय:
अमावस्याया: रात्र्यारम्भात् अष्टमीपर्यन्तमथवा प्रतिपदात: नवमीमध्याह्नपर्यन्तं चलति सन नवरात्रनामस्य सार्थकता । अत्र रात्रि: गण्यते अत: नवरात्र इति निगदितमस्ति । नवरात्र इत्युक्ते नवरात्रीणां समूह: ।
शरीरस्य सुचारुसंचालनाय तु वयं विरेचनादि शुद्धिप्रक्रिया प्रतिदिनमेव कुर्म: किन्तु अंगानाम् आन्तरिकस्वच्छताकार्याय प्रतिषड्मासानामभ्यन्तरे व्रतादिमाध्यमेन शुद्धिकरणं क्रियते । सात्विकाहारविचारै: शरीरस्यान्तरिकी शुद्धिरपि भवति । स्वच्छशरीरमन्दिरे एव भगवत: वास: भवति ।
नवदेव्य:
नवदिवसेभ्य: प्रचलन् नवरात्रपर्वस्य प्रत्येकस्य दिवसस्य एकं भिन्नं स्वरूपं पूज्यते दुर्गादेव्या: । अनेन दुर्गादेव्या: नवरूपाणि परिगण्यते । एतानि नवरूपाणि सन्ति ।
नवरात्र कथा
पौराणिकीकथानुसारं प्राचीनकाले एक: दुर्गम नामक: राक्षस: आसीत् । अतितपाचरणेन स: ब्रह्मणं प्रासीद । तेन वरं गृहीत्वा स: सर्वान् वेदग्रन्थान् अपहृतवान् । अनेन सृष्टे: क्रम: बाधित: । सृष्टे: रक्षणाय देवा: जगदंबादेव्या: आराधनं कृतवन्त: । माता दुर्गमदैत्येन सह युद्धम् आचरितवती । अनन्तरं दुर्गमस्य वधं कृत्वा देवेभ्य: अभयदानं कृतवती । तदा आरभ्य एव नवरात्रिपर्वस्य आरम्भ: अभवत् ।
ध्यान मंत्रम्
वंदे वांच्छितलाभायाचंद्रार्धकृतशेखराम्
वृषारूढांशूलधरांशैलपुत्रीयशस्विनीम् ॥
पूणेंदुनिभांगौरी मूलाधार स्थितांप्रथम दुर्गा त्रिनेत्रा
पट्टांबरपरिधानांरत्नकिरीटांनानालंकारभूषिता ॥
प्रफुल्ल वदनांपल्लवाधरांकांतकपोलांतुंग कुचाम्
कमनीयांलावण्यांस्मेरमुखीक्षीणमध्यांनितंबनीम् ॥
स्तोत्र मंत्रम्
प्रथम दुर्गा त्वहिभवसागर तारणीम्
धन ऐश्वर्य दायिनी शैलपुत्रीप्रणमाभ्यहम् ॥
त्रिलोकजननींत्वंहिपरमानंद प्रदीयनाम्
सौभाग्यारोग्यदायनीशैलपुत्रीप्रणमाभ्यहम् ॥
चराचरेश्वरीत्वंहिमहामोह विनाशिन
भुक्ति, मुक्ति दायनी,शैलपुत्रीप्रणमाभ्यहम् ॥
चराचरेश्वरीत्वंहिमहामोह विनाशिन
भुक्ति, मुक्ति दायिनी शैलपुत्रीप्रणमाभ्यहम् ॥कवच मंत्रम्
ओमकार:में शिर: पातुमूलाधार निवासिनी
हींकार,पातुललाटेबीजरूपामहेश्वरी ॥
श्रीकार:पातुवदनेलज्जारूपामहेश्वरी
हूंकार:पातुहृदयेतारिणी शक्ति स्वघृत ॥
फट्कार:पातुसर्वागेसर्व सिद्धि फलप्रदाम् ।।
एतानि मन्त्राणि भारतकोशजालपृष्ठात् स्वीकृतानि सन्ति । तेभ्य: धन्यवादा: ।
0 टिप्पणियाँ