अर्थालंकार: - दृष्‍टान्‍त अलंकार:

 

वाक्‍ययो: उपमानोपमेयायो: प्रतिबिम्‍बनं दृष्‍टान्‍त अलंकार: कथ्‍यते ।

दृष्‍टान्‍तस्‍तु सधर्मस्‍य वस्‍तुन: प्रतिबिम्‍बनम् ।

अर्थात् द्वयो: वाक्‍ययो: धर्मयुक्‍तवस्‍तो: (उपमानस्‍य च उपमेयस्‍य च) बिम्‍बप्रतिबिम्‍बभाव: दृष्‍टान्‍तअलंकार: कथ्‍यते ।  तात्‍पर्यमस्ति यत् यत्र उपमेय, उपमानभूतयो: वाक्‍ययो: धर्मयुक्‍तउपमेयउपमानयो: प्रतिबिम्‍बनं वर्णितं भवति तत्र दृष्‍टान्‍तअलंकार: भवति ।

विशेष: -

  • बिम्‍ब-प्रतिबिम्‍बभाव: - 'द्वयोरर्थयोर्द्विरुपादानं बिम्‍बप्रतिबिम्‍बभाव:'
  • एकस्‍य अर्थस्‍य शब्‍दद्वयेन अभिधानं वस्‍तुप्रतिवस्‍तुभाव: ।

  द्वयो: अर्थयो: द्वि: उपादानं बिम्‍ब‍प्रतिबिम्‍बभाव: ।।           -आचार्य विश्‍वनाथ: ।

  • दृष्‍टान्‍तपदस्‍योत्‍पत्ति: - 'दृष्‍टोन्‍तो निश्‍चयो यत्र स दृष्‍टान्‍त: ।'

उदाहरणम् -

अविदितगुणापि सत्‍कविभणिति: कर्णेषु वमति मधुधाराम् ।

अनधिगत परिमलापि हि हरति दृशं मालतीमाला ।।

प्रस्‍तुतोदाहरणे 'सत्‍कविभणिति' उपमेयं, 'मालतीमाला' उपमानं च अस्ति ।  एतयो: मध्‍ये बिम्‍ब-प्रतिबिम्‍बभाव: अस्ति अथ च एतयो: गुणा: अपि बिम्‍बप्रतिबिम्‍बभावं वहन्ति अत: दृष्‍टान्‍तअलंकार: अस्ति ।

इति ........

टिप्पणियाँ