अर्थालंकार: - अपह्नुति अलंकार:

 

उपमेयस्‍य निषेधे सति उपमानस्‍य स्‍थापना अपह्नुतिअलंकार: कथ्‍यते ।

प्रकृतं प्रतिषिध्‍यान्‍यस्‍थापनं स्‍यादपह्नुति: ।

अर्थात् यत्र उपमेयस्‍य निषेधं कृत्‍वा तस्‍योपरि उपमानस्‍य स्‍थापना क्रियते तत्र अपह्नुतिअलंकार: भवति ।

  • उपमेयं निषिध्‍य तत्रोपमानाभेदव्‍यवस्‍थापनम् अपह्नुति:      - विश्‍वेश्‍वर पण्डित ।

उदाहरणम् -

नेदं नभोमण्‍डलमम्‍बुराशिर्नैताश्‍च तारा नवफेनभंगा: ।

नायं शशी कुण्‍डलित: फणीन्‍द्रो नासौ कलंक: शयितो मुरारि: ।।

प्रस्‍तुतोदाहरणे उपमेयभूत आकाशमण्‍डलस्‍य निषेधं कृत्‍वा तत्र उपमानभूतसमुद्र, फेनराशि:, शेषनागस्‍य उपरि शयित: भगवत: विष्‍णो: स्‍थापनं कृतमस्ति अत: अपह्नुति अलंकार: अस्ति ।

इति......

टिप्पणियाँ