अर्थालंकार: - उत्‍प्रेक्षा अलंकार:


उपमेयस्‍य उपमानरूपे सम्‍भावना उत्‍प्रेक्षाअलंकार: कथ्‍यते ।
भवेत् सम्‍भावनोत्‍प्रेक्षा प्रकृतस्‍य परात्‍मना ।
अर्थात् यत्र उपमेयस्‍य सम्‍भावना उपमानवत् क्रियते तत्र उत्‍‍प्रेक्षाअलंकार: भवति ।
उत्‍प्रेक्षाया: व्‍युत्‍पत्ति: - ''उत् उर्ध्‍वंगता प्रेक्षा दृष्टि: प्रतिभा च यस्‍यां सोत्‍प्रेक्षा''
आचार्यविश्‍वनाथेन उत्‍प्रेक्षाया:  भेदोपभेदा: स्‍वीकृत: अस्ति ।  उत्‍प्रेक्षावाचकशब्‍दानां सन्‍दर्भे स: उक्‍तवान् - ''मन्‍ये शंके ध्रुवं प्रायो नूनमित्‍येवमादय:''
आचार्य दण्डिना उत्‍प्रेक्षावाचकशब्‍दानां सूची प्रस्‍तुवन् 'काव्‍यादर्शे' निगदितमस्ति -
''मन्‍ये शंके ध्रुवं प्रायो नूनमित्‍येवमादिभि: ।
उत्‍प्रेक्षा व्‍यज्‍यते शब्‍दैरिवशब्‍दोपि तादृश: ।।''
उदाहरणम् -
लिम्‍पतीव तमोंगानि वर्षतीवांजनं नभ: ।
असत्‍पुरुषसेवेव दृष्टिर्विफलतां गता ।।
अत्र 'व्‍यापन', 'अध: अंधकारप्रसरणयो:' उपमेयाभ्‍यां क्रमश: 'अंग', अंजनवर्षणरूपयो: सम्‍भावना कृतास्ति ।  अत: उत्‍प्रेक्षा अलंकार: अस्ति ।  अत्र उत्‍प्रेक्षावाचकम् इव शब्‍द: विद्यते ।
इति

टिप्पणियाँ

एक टिप्पणी भेजें