जालसूचिका (ब्‍लाग) निर्माणे किं-किमावश्‍यकमिति ?

 

जालसूचिका निर्माणाय कानिचन वस्‍तूनि आवश्‍यकानि अधोक्‍तानि सन्ति ।

  • स्‍थानकस्‍य (प्‍लेटफार्म) चयनम् (ब्‍लागर, वर्डप्रेस, जूमला इत्‍यादिषु कश्चित)
  • ईसंकेत: (ईमेल आई.डी.)
  • नामनिर्धारणम्
  • उद्देश्‍यम्
  • सूचिकासंकेत: इत्‍या‍दि

1. स्‍थानकस्‍य चयनम् - एतत् अतिमहत्‍वपूर्णं कार्यमस्ति जालसूचिकां निर्मातुम् ।  पूर्वं तु स्‍थानकस्‍य एव निश्‍चयं करणीयं भवति यस्‍योपरि आत्‍मन: जालसूचिका निर्मापनीया भवति ।  प्रायश: जालजगति ब्‍लागर एवं च वर्डप्रेस सर्वतोधिकप्रचलितस्‍थानकौ स्‍त: ।  तयो: अपि ब्‍लागर तकनीकिदृष्‍ट्या सरलमस्ति ।  अत: नूतनजना: ये तकनीकिज्ञानं तावत् न वहन्‍त: भवन्ति ते ब्‍लागर एव स्‍वीकुर्यु: ।

 

2. ईसंकेत: - ईसंकेत: इत्‍युक्‍ते विद्युतसंकेत: ।  एष: संकेत: स: भवति यत्र भवत: विद्युतपत्राणि आगच्‍छन्ति ।  अस्‍य प्रयोग: सम्‍प्रति बहुप्रचलित: अस्ति ।  सामान्‍यतया सर्वे जालचालका: एतस्मिन् विषये जानन्ति एव ।  सूचिकानिर्माणाय एतदपि अतिमहत्‍वपूर्णं भवति ।  अनेन माध्‍यमेन एव सूचिकास्‍थानकेषु पंजीयनं क्रियते ।

 

3. नामनिर्धारणम् - नाम एव सूचिकाया: परिचय: भवति ।  भवत: सूचिकाया: विषय: क: पुनश्‍च अनेन माध्‍यमेन भवान् समाजे किं प्रसा‍रितुं वांछति इति सर्वं नाम्‍ना एव ज्ञायते ।  अत: अभिधानस्‍य महती आवश्‍यकता ।  यथा भवान् संस्‍कृतप्रसारकार्याय सूचिकां निर्मापयति चेत् भवत: सूचिकाया: नाम संस्‍कृतप्रसारक:, संस्‍कृतशिक्षक:, संस्‍कृतकार्यकर्ता इत्‍यादि किमपि भवितुमर्हति ।  अत्र यदवधेयमस्ति तदस्ति तन्‍नाम एव चयनीयं यत् अन्‍यत्र न प्राप्‍येत ।  अनेन हानि: भवितुमर्हति ।  भवत: पाठका: अन्‍यत्र गन्‍तुं शक्‍नुवन्ति, अत: सावधानतया नामचयनं कुर्यात् ।

 

4. उद्देश्‍यम् - जालसूचिकानिर्माणात् पूर्वं अस्‍य निर्णयं कुर्यात् यत् अस्‍या: सूचिकाया: निर्माणं किमर्थं क्रियते ।  अस्‍य उद्देश्‍यं किमिति ।  उद्देश्‍येन विना सूचिकाया: अस्तित्‍वं नैव ।  यदि भवान् आत्‍मन: सूचिकायां किमपि एवमेव लिखति चेत् भवत: लेखाना: प्रभाव: नैव भवति ।  अत: एकमुद्देश्‍यं स्‍थाप्‍य तदनुसारं कार्यं करणीयम् ।  एतस्‍य उद्देश्‍यस्‍य विषये जालसूचिकायाम् अपि वर्णनं भवेत् ।

 

5. सूचिकासंकेत: - यथा अस्‍माकं गृहस्‍य कश्चित विशिष्‍ट: एव पत्रसंकेत: भवति येन माध्‍यमेन जना: अस्‍माकं गृहं सहजतया प्राप्‍नुवन्ति तद्वदेव अस्‍माकं सूचिकाया: अपि एक: विशिष्‍ट: संकेत: भवेत् अनेन जना: सहजतया अस्‍माकं सूचिकां प्राप्‍तुं शक्‍नुवन्ति ।  एषा सूचिका समूल्‍येन, निर्मूल्‍येन च द्विविधं भवति ।  प्रारम्‍भे तु निर्मूल्‍यकं संकेतमेव स्‍वीकुर्यात् ।  अनन्‍तरं यदा सूचिका वर्धते तदा समूल्‍यकं ईसंकेतं स्‍वीकर्तुं शक्‍यन्‍ते ।

टिप्पणियाँ