ईशावास्‍योपनिषद्

vedas_thumb2

उपनिषत्‍सु सर्वता प्राचीना, महत्‍वपूर्णाश्‍च अस्ति इयम् ।  यजुर्वेदस्‍य माध्‍यन्दिनिशाखाया: 40तम: अध्‍याय: ईशावास्‍योपनिषद् उत ईशोपनिषद् नाम्‍ना अभिधीयते ।  अस्‍य प्रथम: मन्‍त्र: 'ईशावास्‍यमिदं सर्वं' इति अस्ति; अस्‍य मन्‍त्रस्‍य प्राक् शब्‍दमाधृत्‍य अस्‍य उपनिषदस्‍य नामकरणं जातमस्ति अतएव अस्‍य नाम ईशावास्‍योपनिषद् इति अस्ति ।

अस्मिन् उपनिषदे केवलं 18 मन्‍त्रा: सन्ति ।  किन्‍तु एते 18 मन्‍त्रा: श्रीमद्भगवद्गीताया: 18 अध्‍यायसदृशं गौरवं वहन्ति ।  एतेषु 18 मन्‍त्रेषु कर्मोपासनाया: मार्मिक विवेचनम् अस्ति एवं च अद्वैतभावस्‍य सुस्‍पष्‍टवर्णनं कृतमस्ति ।  अत्र ब्रह्मण: स्‍वरूपविवेचनात् परं विद्या-अविद्या, तथा सम्‍भूति-असम्‍भूति विषयस्‍य विवेचनं प्राप्‍यते ।

एकस्मिन् मन्‍त्रे आत्‍महत्‍याया: विरोध:, तस्‍य दण्‍डविधानं च अस्ति । 

असुर्या नाम ते लोका, अन्‍धेन तमसावृता

तान्‍स्‍ते प्रेत्‍याभिगच्‍छन्ति ये के चात्‍महनो जना: ।।

समग्रउपनिषदे जीवनस्‍य सारतत्‍वं प्रकटितमस्ति ।  अतएव इदम् उपनिषदं सर्वाषु उपनिषत्‍सु सर्वप्रमुखं, सर्वप्राचीनं च मन्‍यन्‍ते ।

इति ।

टिप्पणियाँ