''स्‍व. श्री रामकृपाल पाण्‍डेय स्‍मारक खेल-कूद प्रतियोगिता व सांस्‍कृतिककार्यक्रम'' इत्‍यस्‍य आयोजनम्


विगतषड्विंशतिवर्षेभ्‍य: जायमान: ''स्‍व. श्री रामकृपाल पाण्‍डेय स्‍मारक खेल-कूद प्रतियोगिता एवं सांस्‍कृतिक कार्यक्रम''  (ग्राम-ईशापुरम्, महबूबगंज, फैजाबाद- निकट श्री श्रृंगीऋषि आश्रम धाम) कार्यक्रम: अस्मिन् वर्षे अपि 23 सितम्‍बर 2012 (ज्‍येष्‍ठ रविवासर:) निर्धारित: अस्ति । अस्य कार्यक्रमस्‍य आयोजक: श्रीमान् राममुनिपाण्‍डेयवर्य:सूचितवान् यत् एष: कार्यक्रम: तस्‍य स्‍व. पितु: श्री रामकृपालपाण्‍डेयस्‍य श्रद्धांजलिरूपेण आयोज्‍यते । अस्‍य आयोजनं विगत षडविंशतिवर्षेभ्‍य: अनवरतरूपेण भवति । कार्यक्रमस्‍य सम्‍पूर्णव्‍यय: आयोजकस्‍यैव भवति । आयोजने विविधा: कार्यक्रमा: भवन्ति । तेषु प्रमुखकार्यक्रमा: अधोक्‍ता: सन्ति -
  • 100 मी. धावनम् - लघुबालानाम् (आयुसीमा - 5-10 वर्षं यावत्)
  • 200 मी. धावनम् - लघुबालानाम् (आयुसीमा - 8-14 वर्षं यावत्)
  • 400 मी. धावनम् - कनिष्‍ठज्‍येष्‍ठबालनाम् (आयुसीमा - 10-18 वर्षं यावत्)
  • 800 मी. धावनम् - ज्‍येष्‍ठानाम् (आयुसीमा - 14-22 वर्षं यावत्)
  • 1600 मी. धावनम् - ज्‍येष्‍ठानाम् (15वर्षत: यावच्‍छक्‍यम्)
  • कूर्दनक्रीडा - ज्‍येष्‍ठानाम् (आयुसीमा - 18त: उपरि)
  • कूर्दनक्रीडा - कनिष्‍ठानाम् (आयुसीमा - 12-18 वर्षं यावत्)
  • हस्‍तकन्‍दुकक्रीडा (वालीबालक्रीडा)
  • विभिन्‍नप्रान्‍तेभ्‍य: आगतानां समूहानां मध्‍ये रोमांचकरी हस्‍तकन्‍दुकक्रीडाया: आयोजनम्
  • पुरस्‍कारवितरणम्
  • रात्रौ 8वादनत: वृहद् संकीर्तनस्‍य आयोजनं यस्मिन् विविधप्रान्‍तेभ्‍य: समागता: गायका:, वादका: च स्‍व-स्‍व गायनं प्रस्‍तुवन्ति ।
दूरात् समागतानां बान्‍धवानां भोजनवासव्‍यवस्‍था माननीयआयोजकमहोदयेन क्रियते । ये केपि प्रतियोगितायां भागं वहितुम् उत प्रतियोगितां द्रष्‍टुम् इच्‍छन्ति ते कृपया अध:दत्‍तसंकेते 23‍ दिनांके मध्‍याह्नपर्यन्‍तं प्राप्‍नुवन्‍तु ।

श्री राममुनि पाण्‍डेय
ग्राम - ईशापुर

पोस्‍ट - महबूबगंज
जिला - फैजाबाद, उ.प्र.
पिन संख्‍या - 224234

टिप्पणियाँ