शान्तिपाठ: - ईशोपनिषद्

शान्तिपाठः

ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
ऊँ शान्तिः शान्तिः शान्तिः

अन्वयः - ऊँ अदः पूर्णम् इदम् पूर्णम् पूर्णात् पूर्णम् उदच्यते ।  पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ।

सरलार्थ: - सः परमेश्वरः सर्वथा पूर्णमस्ति ।  एतत् जगदपि पूर्णमेवास्ति यतोहि पूर्णात् एव पूर्णस्य उत्पत्तिरिति अस्ति ।  तेन पूर्णेन पूर्णस्य निष्कासने सति अपि तत् पूर्णमेव अवशिष्यते इति ।  त्रितापस्य शान्तिः भवेत् ।


टिप्पणियाँ