संस्‍कृतनिबन्‍धलेखनप्रतियोगिताया: परिणाम: ।


     गतमासे गता संस्‍कृतनिबन्‍धलेखनपरीक्षाया: सम्‍प्रति परिणाम: आगत: अस्ति ।  पूर्वकथनानुसारम् अस्‍या: प्रतियोगिताया: स्‍थानत्रयपर्यन्‍तं विजेतार: चिता: सन्ति ।  एतेषां विवरणं लेखै: सह अत्र दीयते । 

प्रथम पुरस्‍कार:
श्री प्रमोद कुमार:
नईदिल्‍ली

        अस्‍य महोदयस्‍य जन्‍मभूमि: इति लेख: प्रथमपुरस्‍काराय चित: अस्ति ।  प्रथमपुरस्‍काररूपेण एतस्‍मै 5000 रुप्‍यकाणि दास्‍यते ।

द्वितीय: पुरस्‍कार:
श्री विशाल सिंह:
सिरखिनपुरम्, सुलतानपुरम् उत्‍तरप्रदेश

       अस्‍य वीर उधमसिंह: इति लेख: द्वितीय पुरस्‍काराय चित: अस्ति ।  एतस्‍मै द्वितीयपुरस्‍काररूपेणे निर्धारितराशि: 2500 रुप्‍यकाणि दास्‍यते ।

तृतीय: पुरस्‍कार:
श्री गोपाल द्विवेदी
झूसी इलाहाबाद उत्‍तरप्रदेश

        अस्‍य लेख: चन्‍द्रगुप्‍त: तृतीयपुरस्‍कारस्‍य कृते चित: अस्ति ।  एतस्‍मै तृतीय पुरस्‍काररूपेण निर्धारित‍राशि: 1000 रुप्‍यकाणि दास्‍यते ।
         एतेषां लेखा: संस्‍कृतजगत् ईपत्रिकाया: आगामि संस्‍करणे प्रकाशयिष्‍यते ।

एतेषां महानुभावानां कृते निर्धारितराशि: 26 जनवरी 2013 अवसरे अम्‍बेडकरनगर जनपदस्‍य अनिरुद्धनगर क्षेत्रे, श्री हनुमानमन्दिरे दास्‍यते ।  भवत्सु अपि ये जना: आगन्‍तुम् इच्‍छन्‍त: सन्ति ते कृपया अत्र लिखन्‍तु ।  वयं भवतां कृते मार्गनिर्देशं विश्रामव्‍यवस्‍था: च पश्‍याम: ।
धन्‍यवादा:


संस्‍कृतजगत्
-->

टिप्पणियाँ