धातूनां प्रकार: ।

-->
धातु: त्रेधा भवति । 
1- सकर्मकधातु:
2- अकर्मकधातु:
3- द्विकर्मकधातु: च


1- सकर्मकधातु: - येषां क्रियाणां फलं व्‍यापाराश्‍च भिन्‍न-भिन्‍नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्‍यन्‍ते । (फलव्‍यधिकरणव्‍यापारवाचकत्‍वं सकर्मकत्‍वम्) ।  साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्‍यादि ।

2- अकर्मकधातु: - यस्‍य फलं व्‍यापाराश्‍च एकस्मिनाश्रये एव तिष्‍ठति तदकर्मकमिति उच्‍यते ।  (फलसमानाधिकरणव्‍यापारवाचकत्‍वम् अकर्मकत्‍वम्) ।
  • सकर्मकधातु: यदि स्‍व अर्थं परित्‍यज्‍य अपरस्‍य अर्थस्‍य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी व‍हति ।
  • यदि कर्मस्‍य धात्‍वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति ।  यथा - गोपाल: नृत्‍यति ।
  • यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति ।
  • कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । 
हितात् न य: संश्रृणुते स किं प्रभु:
धातोरर्थान्‍तरे वृत्ते: धात्‍वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।।
अधोलिखितार्थक्रिया: अकर्मक भवन्ति ।

लज्‍जासत्‍तास्थितिजागरणं वृद्धिक्षयभयजीवनमरणम्
शयनक्रीडारुचिदीप्‍त्‍यर्थं धातुगणं तमकर्मकमाहु: ।।

3- द्विकर्मकधातु: - यासां क्रियाणां कर्मद्वयं भवति ता: क्रिया: द्विकर्मकक्रिया: भवन्ति ।
दुह्याच् पच् दण्‍ड रुधि प्रच्छिचिब्रू शासुजिमथमुषाम् 
कर्मयुक्स्‍या‍दकथितं तथा नी हृ कृष् वहाम् ।।

इति

टिप्पणियाँ

  1. अति प्रसन्नः जातोऽहम्। धातूनां विषये ज्ञास्यामि इति मत्वा आनन्दम् एति।

    जवाब देंहटाएं

एक टिप्पणी भेजें