लोट् लकारस्‍य प्रयोग: - 2

आशीर्वाद अर्थे मध्‍यम तथा अन्‍य पुरुषे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

गच्‍छ विजयी भव ।
(जाओ, विजय प्राप्‍त करो) ।

पन्‍थान: सन्‍तु ते शिवा: ।
(तुम्‍हारे मार्ग कल्‍याणकारी होवें) ।

पुत्रं लभस्‍वात्‍मगुणानुरूपम् । 
(अपने ही समान गुणों वाला पुत्र प्राप्‍त करो) । 

सदारपुत्रो राजपुत्रो जीवतु । 
(राजपुत्र पुत्र सहित जीवित रहें) ।

विशेष - आशीर्वाद अर्थे यदा लोट् लकारस्‍य प्रयोग: भवति चेत् 'तु', 'हि' च स्‍थाने विकल्‍पेन 'तात्' इति भवति ।  यथा -

चिरं जीवतात् (जीवतु वा) शिशु: ।
कुशलं ते भवतात् (भवतु वा) ।

इति

टिप्पणियाँ