लिट् लकार प्रयोग: - 2

अत्‍यन्‍तापह्नवे लिट् वक्‍तव्‍य: । वा. ।

सत्‍यवाक्‍यस्‍य अपह्नवे (निमीलनेच्‍छायाम्) लिट् लकारस्‍य प्रयोग: भवति ।  यथा -
अपि कलिंगेष्‍ववस: ? नाहं कलिंगान् जगाम ।
(क्‍या तुम कलिंग में रहे ?  नहीं मैं कभी कलिंग देश में नहीं गया) ।

अरे ! किमिति मे पुस्‍तकं मलिनीकृतवान् असि ? नाहं ददर्श ते पुस्‍तकम् I
(अरे ! तूने मेरी पुस्‍तक क्‍यों गन्‍दी कर दी ? नहीं, मैंने नहीं की, मैंने तुम्‍हारी पुस्‍तक देखी तक नहीं है) ।

उत्‍तमपुरुषे लिट् लकार: नैव भवति, किन्‍तु स्‍वप्‍नावस्‍थायां उन्‍मत्‍तावस्‍थायां च उत्‍तमपुरुषे अपि लिट् लकारस्‍य प्रयोग: भवति । यथा -

अहम् उन्‍मत्‍त: सन् वनं विचचार ।
(मैंने पागलपन की दशा में जंगल में भ्रमण किया) ।

अप्‍यहं निद्रित: सन् विललाप ?
(क्‍या मैं निद्रित अवस्‍था में विलाप कर रहा था ?) ।

इति

टिप्पणियाँ