लृट् लुट् च लकारयो: प्रयोग: ।

अनद्यतने लुट् ।3।3।15। लृट् शेषे च ।3।3।13।

भविष्‍यकालस्‍य वाक्‍यानां प्रयोग: संस्‍कृते लृट् लुट् च लकारयो: भवति । यद्यपि एतौ द्वौ अपि लकारौ भविष्‍यकालबोधकौ तथापि तयो: भेद: विद्यते । 
दूरवर्ती भविष्‍यस्‍य बोधार्थं लुट् लकार:, आसन्‍न उत समीपवर्ती भविष्‍यत् कृते तु लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

1 (क) - अयोध्‍यां श्‍व: प्रयातासि कपे भरतपालिताम् ।
(हे वानर, तू कल भरतपालित अयोध्‍या में जायेगा) ।

(ख) - पंचषैरहोभि: वयमेव तत्रागन्‍तार: ।
(पांच छ: दिनों में हम ही वहाँ जायेंगे) ।

2 (क) - न जाने क्रुद्ध: स्‍वामी किं विधास्‍यति ।
(न जाने स्‍वामी क्रोध में क्‍या कर डालेंगे) ।

(ख) - प्रत्‍ययं दास्‍यते सीता तामनुज्ञातुमर्हसि ।
(सीता अपने सतीत्‍व का प्रमाण देगी, उसे आज्ञा देना आपका काम है) ।

इति

टिप्पणियाँ