१- एडि. पररूपम् ६/१/९४
यदि अकारान्त-उपसर्गस्य अनन्तरं एकारादि, ओकारादि वा धातु: आगच्छेत् चेत् उभयो: स्थाने 'ए' अथवा 'ओ' इति भवति । यथा -
१-प्र + एजते = प्रेजते
२-उप + ओषति = उपोषति
किन्तु यदि नामधातु: आगच्छेत् चेत् विकल्पेन वृद्धि: भवति (वा सुपि) । यथा -
१- उप + एडकीयति = उपेडकीयति, उपैडकीयति ।
२- प्र + ओघीयति = प्रौघीयति, प्रोघीयति ।
२- एवे चानियोगे (वार्तिकम्)
'एव' सह अपि यदा अनिश्यस्यैव बोध: भवतु तर्हि पूर्वशब्दस्य 'अ' तथा च एव शब्दस्य 'ए' मिलित्वा 'ए' एव स्थास्यति । यथा -
क्व + एव भोक्ष्यसे = क्वेव भोक्ष्यसे
यदि अनिश्चयं न स्थास्यति चेत् 'ऐ' भविष्यति इति । यथा -
तव + एव = तवैव ।
३- श्ाकन्ध्वादिषु पररूपं वाच्यम् (वार्तिकम्)। तच्च्टे: (वार्तिकम्) ।
शक + अन्धु:, कुल + टा, मनस् + ईषा इत्यादिषु उदाहरणेषु अपि परवर्ती शब्दस्य आदि स्वरस्ैयव अस्तित्व: स्थास्यते । पूर्वस्य 'टि' इत्यस्य लोप: भवति । यथा -
१- मार्त + अण्ड: = मार्तण्ड:
२- कर्क + अन्धु: = कर्कन्धु:
३- शक + अन्धु: = शकन्धु:
४- कुल + अटा = कुलटा
५- मनस् + ईषा = मनीषा
(अ) सीमन्त: केशवेशे
केशे सीमन्त(मांग) अर्थे सीम + अन्त: = सीमन्त: न तु सीमान्त: इति भविष्यति ।।
(आ) ओत्वोष्ठयो: समासे (वार्तिकम्)
समासे ओतु ओष्ठ वा शब्दौ परवर्ती सन्तौ विकल्पेन पररूपं भवति । यथा
१- स्थूल + ओतु: = स्थूलोतु:, स्थूलौतु:
२- बिम्ब + ओष्ठ: = बिम्बोष्ठ:, बिम्बौष्ठ:
(इ) सारङ्गः पशुपक्षिणो:
पशु-पक्षि अर्थेषु सार + अङ्गः = सारङ्गः इति भविष्यति न तु साराङ्गः ।।
इति
1 टिप्पणियाँ
सन्धि-समास-कारकप्रकरणम् इव वाच्यपरिवर्तनम् अपि संयुज्येत चेत् तत् भवतां महती करुणा भवेत्।
जवाब देंहटाएं