वृद्धि संधिः - अपवादाः ।।


१- एडि. पररूपम् ६/१/९४

 यदि अकारान्‍त-उपसर्गस्‍य अनन्‍तरं एकारादि, ओकारादि वा धातु: आगच्‍छेत् चेत् उभयो: स्‍थाने 'ए' अथवा 'ओ' इति भवति । यथा -

१-प्र + एजते = प्रेजते 
२-उप + ओषति = उपोषति 

किन्‍तु यदि नामधातु: आगच्‍छेत् चेत् विकल्‍पेन वृद्धि: भवति (वा सुपि) । यथा -

१- उप + एडकीयति = उपेडकीयति, उपैडकीयति । 
२- प्र + ओघीयति = प्रौघीयति, प्रोघीयति ।


२- एवे चानियोगे (वार्तिकम्)
  'एव' सह अपि य‍दा अनिश्‍यस्‍यैव बोध: भवतु तर्हि पूर्वशब्‍दस्‍य 'अ' तथा च एव शब्‍दस्‍य 'ए' मिलित्‍वा 'ए' एव स्‍थास्‍यति । यथा -

क्‍व + एव भोक्ष्‍यसे = क्‍वेव भोक्ष्‍यसे 

  यदि अनिश्‍चयं न स्‍थास्‍यति चेत् 'ऐ' भविष्‍यति इति । यथा -

तव + एव = तवैव । 

३- श्‍ाकन्‍ध्‍वादिषु पररूपं वाच्‍यम् (वार्तिकम्)। तच्‍च्‍टे: (वार्तिकम्) ।

   शक + अन्‍धु:, कुल + टा, मनस् + ईषा इत्‍यादिषु उदाहरणेषु अपि परवर्ती शब्‍दस्‍य आदि स्‍वरस्‍ैयव अस्तित्‍व: स्‍थास्‍यते । पूर्वस्‍य 'टि' इत्‍यस्‍य लोप: भवति । यथा -

१- मार्त + अण्‍ड: = मार्तण्‍ड: 
२- कर्क + अन्‍धु: = कर्कन्‍धु: 
३- शक + अन्‍धु: = शकन्‍धु: 
४- कुल + अटा = कुलटा 
५- मनस् + ईषा = मनीषा 

(अ) सीमन्‍त: केशवेशे 
केशे सीमन्‍त(मांग) अर्थे सीम + अन्‍त: = सीमन्‍त: न तु सीमान्‍त: इति भविष्‍यति ।।

(आ) ओत्‍वोष्‍ठयो: समासे (वार्तिकम्) 
समासे ओतु ओष्‍ठ वा शब्‍दौ परवर्ती सन्‍तौ विकल्‍पेन पररूपं भवति । यथा

१- स्‍थूल + ओतु: = स्‍थूलोतु:, स्‍थूलौतु: 
२- बिम्‍ब + ओष्‍ठ: = बिम्‍बोष्‍ठ:, बिम्‍बौष्‍ठ: 

(इ) सारङ्गः पशुपक्षिणो: 
पशु-पक्षि अर्थेषु सार + अङ्गः = सारङ्गः इति भविष्‍यति न तु साराङ्गः ।। 



इति

टिप्पणियाँ

  1. सन्धि-समास-कारकप्रकरणम् इव वाच्यपरिवर्तनम् अपि संयुज्येत चेत् तत् भवतां महती करुणा भवेत्।

    जवाब देंहटाएं

एक टिप्पणी भेजें