अभिसारिका नायिका ।।

अभिसारयते कान्‍तं या मन्‍मथवशंवदा । 
स्‍वयं वाभिसरत्‍येषा धीरैरुक्‍ताभिसारिका ।। 
।।स‍ाहित्‍यदर्पण 3/76।।

कामासिक्‍तं भूत्‍वा यदि कापि नायिका कमपि नायकं क्‍वचित् पूर्वसंकेतितस्‍थाने आह्वयति स्‍वयं वा गच्‍छति चेत् सा अभिसारिका नायिका कथ्‍यते ।। अस्‍यापि भेदत्रयम् -
  1. कुलीना 
  2. वेश्‍या 
  3. दासी 


इति

टिप्पणियाँ