प्रथमकथा - द्वितीयांकः
करकट आह - 'आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण उक्तंच -
अपृष्टा*त्राप्रधानो यो ब्रूते राज्ञ: पुर: कुधी: ।
न केवलमसस्मानं लभते च विडम्बनम् ।।33
वचस्तत्र प्रयोक्तव्यं यत्रोक्त लभते फलम् ।
स्थायी भवति चात्यन्त राग: शुक्लपटे यथा ।।34
दमनक आह - मा मा एवं वद
अप्रधान: प्रधान: स्यात्सेवते यदि पार्थिवम्
प्रधानो*प्यप्रधानं स्याद्यदि सेवाविवर्जित: ।।35
आसन्नमेव नृपतिभजते मनुष्यं
विद्याविहीनमकुलीनमसंस्कृतं वा
प्रायेण भूमिपतय: प्रमदा: लताश्च
यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ।।36
कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवका:
आरोहन्ति शने: पश्चाद् धुन्वन्तमपि पार्थिव ।।37
विद्यावतां महेच्छानां शिल्पविक्रमशालिनम् ।
सेवावृत्तिविदांचैव नाश्रय: पार्थिव विना ।।38
ये जात्यादिमहोत्साहान्नशेन्द्रान्नोपयान्ति च
तेषामामरणं भिक्षा प्रायश्चित विनिर्मितम् ।।39
ये च प्राहुदुरात्मानो दुराध्या महीभाुज: ।
प्रमादालस्यजाठ्यानि ख्यातितानि निजानि तै: ।।40
सर्पान् व्याघ्रानि गजान् सिंहान् दृष्ट्वोपापैर्वशीकृतात्
राजेति कियती मात्रा धीमतामप्रमादिनान् ।।41
राजानमे च संश्रित्य विद्वान याति परां गतिम् ।
विना मलयमत्यत्र चन्दनं न प्रतोहति ।।42
धवलात्यातपत्रांणि वाजिनश्च मनोरमा:
सदा मत्ताश्च मातंगा: प्रसन्ने सति भूपतो ।।43
करकट आह- 'अथ भवान् किं कर्तुमना: ॽ सो*व्रवीत - अद्य अस्मत्वामी पिंगलको भीतो भीतपरिचारश्च वर्तते तत् एवं गत्वा भयकारण विज्ञाय सन्धिविग्रहयानासनसंश्रयद्वधीभावानामेकतमेन संविधास्ये' । करकट आह - कथं वेत्तिभावान् यद् भयाविष्टो*यं स्वामी ॽ सो*व्रवीत् --'ज्ञेयं किमत्र । यत उक्तंच -
उदारिता*थ पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिता:
अनुक्तमप्यहति पण्डिता जन: परेंगितज्ञानफला हि बुद्धय ।।44
आकारैरिगितेगत्या चेष्टया भाणणेन च
नेत्रवक्त्रविकारैश्च लक्ष्यते*न्तर्गत मन: ।।45
अदद्यैनं भयााकुल प्राप्त स्वबुद्धिप्रभावेण निर्भय कृत्वा वशीकृत्य न निजां साचिव्यपदवी समासादयिस्यामि । 'करकट आह 'अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमेन वशीकरिष्यसि ॽ सो*व्रवीत् - कथमहं सेवा*नभिज्ञ । मया हि ततोत्संगे । क्रीडता अभ्यागत साधूनां नीतिशास्त्र पठतां यत् श्रुतसेवाधर्मस्य सारभूतं तद्धदि स्थापितम् । श्रूयतां तच्चेदम् --
सुवर्णपुष्पितां पृथ्वी विचन्वन्ति नरास्त्रत
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।46
सा सेवा या प्रभूहिता ग्राह्या वाक्यविशेषत: ।
आश्रयेत्पार्थिवं विद्वांस्तद्धारेणैव नान्यथा ।।47
यो न वेत्ति गृणात् यन्यान् तं तं सेवेत पण्डित:
न हि तस्मात्फलं किंचित्सुकृष्टादूषरादिव ।।48
द्रव्यप्रकृतिहीनो*पि सेव्य: गुणान्वित:
भवत्याजीवन यस्मात्फल कालन्तरादपि ।।49
अपि स्थाणुवदासीन: शुष्यन्परिगत: क्षुधा
न त्वेवानात्मसम्पन्नाद्वृत्तिमीहेत पण्डित: ।।50
सेवक: स्वामिन द्वेष्टिं कृपण पुरुषाक्षरम्
आत्मानं किं स न द्वेष्टि सेव्यासेव्य न वेत्ति य: ।।51
यमाश्रित्य न विश्राम क्षुधार्ता यान्ति सेवका:
सो*कवन्नृपतिस्त्याज्य: सदा पुष्पफलो*पि सन् ।।52
राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि
पुरोहिते प्रतिहारे सदावर्तेतराजवत् ।।53
जीवेति प्रब्रूवन् प्रोक्त: कृत्याकृत्यविचक्षण:
करोति निर्विकल्पं य: स भवेद्राजबल्लभ: ।।54
प्रभूप्रसादज विक्तं सुप्राप्तं यो नियोजयेत्
वस्त्राद्य च दद्यात्यग्रे स भवेद्राजबल्लभ: ।।55
अन्त: पुरचरै: सार्द्धं यो न मन्त्र समाचरेत् ।
त कलत्रैर्नरेन्द्रस्य स भवेद्राजबल्लभ: ।।56
द्यूतं यो यमदूताभ हालां हालाहलोपमाम्
पश्येद्दारान्वथाकारान्स भवेद्राजबल्लभ: ।।57
युद्धकाले*ग्रतो य: स्यात्सदा पृष्ठानुग: पुरे
प्रभोर्द्वाराश्रितो हर्म्येसभवेद्राजबल्लभ: ।।58
सम्मतो*हं प्रभोर्नित्यमिति मत्वा व्यतिक्रमेन्
कृच्छरेष्वपि न मर्यादां स भवेद्राजबल्लभ: ।।59
द्वैषिद्वेषपरो नित्यमिष्ठानं मिष्टकर्मकृत्
यो नरो नरनाथस्य स भवेद्राजबल्लभ: ।।60
प्रोक्त: प्रत्युतरं नाहं विरुद्धं प्रभुणां च य:
न समीपे हसत्युच्च: स भवेद्राजबल्लभ: ।।61
यो रण शरण तद्वन्मन्यते भयवर्जित:
प्रवासं स्वतुरावास स भवेद्राजबल्लभ: ।।62
न कुर्यान्नरनाथस्य योषिद्भि: सह संगतिम् ।
न निन्दां न विवादं च स भवेद्राजबल्लभ: ।।63
अनुवर्तिष्यते............
इति
0 टिप्पणियाँ