धीरोदात्‍त नायक: ।।

अवित्‍कथन: क्षमावानतिगम्‍भीरो महासत्‍व: । 
स्‍थेयान्निगूढमानो धीरोदात्‍तो दृढव्रत: कथित: ।।
।।साहित्‍यदर्पण-3/32।।

    य: नायक: आत्‍मप्रशंसा न करोति, क्षमायुक्‍त:, गम्‍भीर:, महासत्‍व:, हर्ष-शोकादिपरिस्थिषु अविचल:, स्थिरप्रकृतिमान्, धृढव्रती, विनयावच्छिन्‍नेन गर्वेण गर्वित: च भवति स: नायक: धीरोदात्‍त इति भवति । अर्थात् सर्वे उत्‍तमगुणा: धीरोदात्‍तनायके विराजन्‍ते ।।

उदाहरणम् - अभिज्ञानशाकुन्‍तले दुश्‍यन्‍त:, उत्‍तररामचरिते श्रीराम । 
इति

टिप्पणियाँ

एक टिप्पणी भेजें