प्रथमकथा - प्रथमांक:
कस्मिंश्चित् नगराभ्याशे केनापि वणिक्पुत्रेण तरुषण्डमध्ये देवतायमनं कर्तुमारब्धम् । तत्र च ये कर्मकरा: स्थापत्यादस्ते मध्याह्नवेलायामाहार्थ नगरमध्ये गच्छन्ति । अथ कदाचित् तत्रानुषंगिकं वानरयूथसितश्चेतश्च परिभ्रमत् आगतम् । तत्र एकस्यकस्याचित् शिल्पिनो*र्द्ध स्फाटितों*जवृक्षदारुमय: स्तम्भ: खदिरकीलकेन मध्यनिहितेन तिष्ठति । एतस्मिनन्तरे ते वानरा: तरुशिखरप्रसादश्रृंगदारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धा: । एकस्य ते वां प्रत्यासन्नमृत्युव्पापल्यात् तस्मिन्नर्द्धस्फाटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावत् उत्पाटयितुमारेभे तावन् तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानात् चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतो*हं ब्रवीमि 'अव्यापारेषु इति आवयो: भक्षित्र शेष अहरौ*स्त्येव, यत् किमनेन व्यापारेण ।' दमनक आह - किं भवान् आहारार्थी केवलमेव ? तन्न युक्तम् उक्तंच ---
सुहृदामुपकारकारणाद्धिषयामप्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधेर्जठर को न विभर्ति केवलम् ।।22
यस्मिन् जीवति जीवन्ति बहव: सो*त्र जीवतु ।
बयांसि किं न कुर्वन्ति चंच्वा स्वोदरपूरणम् ।।23
यं जीव्यते क्षणमपि प्रार्थितं मनुष्यै
विज्ञानुशौर्यविभवार्य्यगुणै: समेतम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञा: ।
काको*पि जीवितचिराय बलिं च भुक्ते ।।24
यो नात्मना न च परेण न बन्धुवर्ग
दीने दयां न कुरुते न च भृत्यवर्गे ।
किं तस्य जीवितफलं हि मनुष्यलोके
काको*पि जीवित चिरायु बलिं च भुक्ते ।।25
सुपूरा स्यात्कुनदिका सुपूरौ मूषिकांजलि:
सुसन्तुष्ट: का पुरुष: स्वल्पकेनापि तुष्यति ।।26
किं तेन जातु जातेन मातुयौवनहारिणा
आरोहति न य: स्वस्य व: शस्याग्र ध्वजो यथा ।।27
परिवर्तिनि संसारे मृत: को वा न जायते
जातस्तु गण्यते सो*त्र त: स्फुरेच्च श्रियाधिक: ।।28
जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् ।
तत्सलिलमज्जानाकुलजनहस्तालम्बं न भवति ।।29
स्तिमितान्नतसंचारा जनसन्तापहारिण:
जायन्ते विरला लोके जलदा इव सज्जना: ।।30
निरतिशयं गरिमाणं तेन जनन्या: स्मरन्ति विद्वान्स: ।
यत्कमपि वहति गर्भ महतामपि यो गुरुर्भवति ।।31
अप्रकटीकृतशक्ति शक्तो*पि जनस्तिरस्क्रयां लभते
निवसन्नन्तर्दारूणि लंघ्यो वहिनर्न तु ज्वलित: ।।32
अनुवर्तिष्यते..............
इति
0 टिप्पणियाँ