परकीया द्विविधा प्रोक्ता परोढा कन्यका तथा ।
यात्रादिनिरता*न्योढा कुलटा गलितत्रपा ।।
कन्या त्वजातोपयमा सलज्जा नवयौवना ।।
।।साहित्यदर्पण 3/66-67।।
परकीया नायिका: द्विधा भवन्ति -
- अन्यविवाहिता (अन्योढा)
- अविवाहिता (कन्या)
यात्रादिकं, मेलापकं, क्रीडादिकस्य वा इच्छिता या सा निर्लज्जा, कुलटा नायिका एव अन्योढा इति कथ्यते ।
अविवाहिता, सलज्जा, नवयौवना नायिका एव कन्या इत्युच्यते ।
पितरं भ्रातरं वा वशीभूता: सन्त: एता: परकीया कथ्यन्ते ।
उदाहरणम् - मालतीमाधवस्य नायिका मालती ।।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ