अर्थोपक्षेपक: ।।

अंकेष्‍वदर्शनीया या वक्‍तव्‍यैव च संमता ।
या च स्‍याद्वर्षपर्यन्‍तं कथा दिनद्वयादिजा ।।
अन्‍या च विस्‍तरा सूच्‍या सार्थोपक्षेपकैर्बुधै: ।
।।साहित्‍यदर्पण 6/51-52 ।।
दूराह्वानं, वधं, विवाहादि या कथा अंके दर्षयितुं योग्‍य: न भवति किन्‍तु तस्‍य ज्ञानं (दर्शकानां) आवश्‍यकं भवति तथा या कथा दिनद्वयात् वर्षपर्यन्‍तं  निर्वाह्यं भवति, अत्‍यन्‍तं विस्‍तृतं वा च भवति तेषां सूचनार्थं वाक्‍यविशिष्‍टा: अर्थोपक्षेपक: कथ्‍यते । अर्थात् अर्थोपक्षेपकेन उपर्युक्‍त-अदर्शनीयानां विषयानां सूचना दीयात् । अस्‍य पंचभेदा: - विष्‍कम्‍भक, प्रवेशक, चूलिका, अंकावतार:, अंकमुखम् च ।

इति

टिप्पणियाँ