कारक-विभक्तिज्ञानम् - संस्‍कृतप्रशिक्षणम् ।।

पूर्वलेखेषु कारक-विभक्तिज्ञानं निगदितमस्ति पूर्वमेव । किन्‍तु अत्र प्रशिक्षणलेखस्‍यावश्‍यकतानुसारं पुन: अत्र तस्‍य सरलप्रस्‍तुति: क्रियते ।

कारकं किम् ॽ - क्रियान्वयित्‍वं कारकत्‍वम् ।
क्रियान्‍वयित्‍वम् इत्‍युक्‍ते क्रियया सामीप्‍यम्, साक्षात् सम्‍बन्‍ध: वा ॽ

अर्थात् क्रियया सह साक्षात् सम्‍बन्‍ध: भवति यस्‍य तत् कारकम् उच्‍यते ।
एतस्‍यानुसारं कारकाणि संस्‍कृतभाषायां षड् (६) एव ।


कारकाणिकर्ताकर्म करणम् सम्‍प्रदानम्अपादानम्सम्‍बन्‍ध: अधिकरणम् सम्‍बोधनम् 
विभक्ति:प्रथमाद्वितीयातृतीयाचतुर्थीपंचमीषष्‍ठीसप्‍तमीसम्‍बोधनम्
चिह्नम्ने कोसे, केद्वाराके लियेसे (अलग होने के अर्थ में) का/की/केमें/परहे/अरे
प्रयोग:
त्रिषु लिंगेषु
राम:/रमा/पुस्‍तकंरामं/रमां/पुस्‍तकंरामेण/रमया/पुस्‍तकेनरामाय/रमायै/पुस्‍तकायरामात्/रमाया:/पुस्‍तकात्रामस्‍य/रमाया:/पुस्‍तकस्‍यरामे/रमायां/पुस्‍तकेहे राम ǃ/ हे रमा ǃ
वाक्‍यप्रयोग:राम: गच्‍छतिपुस्‍तकं पठतु यानेन गच्छतुबालकाय धनं ददातुवृक्षात् फलं प‍ततिरामस्‍य पुस्‍तकम्गृहे परिवार: वसतिहे राम ǃ

उपरिदत्‍तकोष्‍ठेषु सर्वेषां कारकाणां तेषां विभक्‍त्‍या सह प्रस्‍तुति:, वाक्‍यप्रयोग: च कृत: । कारकाणां वाक्‍यप्रयोगे केवलं सम्‍बन्‍ध: एव अस्ति यस्‍य वाक्‍ये क्रिया स्‍वतन्‍त्ररूपेण कर्त्रा सह न योजित: । रामस्‍य पुस्‍तकम् अत्र तु रामेण सह पुस्‍तकस्‍य सम्‍बन्‍ध: एव सूचित: किन्‍तु क्रियाया: अत्र स्‍थानं नैव वर्तते । अत्र यदि क्रिया योजनीया चेत् कस्‍यचित् अन्‍यस्‍य कारकस्‍य सहायत्‍वं स्‍वीकरणीयमेव भवति । यथा - केशव: रामस्‍य पुस्‍तकं पठति ।
यदि प्रश्‍न: क्रियते यत् ''रामस्‍य पुस्‍तकं पठति'' वाक्‍यं कथं न स्‍यात् ॽ अत्र को दोष: ॽ
अस्‍य उत्‍तरम् - ''रामस्‍य पुस्‍तकं पठति'' कथने जिज्ञासा भवति यत् क: रामस्‍य पुस्‍तकं पठति । इत्‍युक्‍ते अत्रापि पुस्‍तकेन सह रामस्‍य सम्‍बन्‍धमात्रमेव । पुस्‍तकं तु कश्चित् अन्‍य: एव पठति । अत: पुस्‍तकस्‍य पठनक्रियया कस्‍यचित् अन्‍यस्‍य साक्षात् सम्‍बन्‍ध: न तु रामस्‍य । अत: सम्‍बन्‍ध: कारकेषु न परिगण्‍यते । एवं कारकाणां संख्‍या ६ एव ।


इति

टिप्पणियाँ

एक टिप्पणी भेजें