बीज

अल्‍पमात्रं समुद्दिष्‍टं बहुधा यद् विसर्पति ।
फलस्‍य प्रथमो हेतुर्बीजं तदभिधीयते ।।
।।साहित्‍यदर्पण 6/65।।
यस्‍य पूर्वं तु अल्‍पकथनमेव भवेत् किन्‍तु तस्‍य विस्‍तार: बहुधा भवतु तत् बीजमिति कथ्‍यते । बीजं तत् यत् सहकारीकारणेन युक्‍त: सन् विविधप्रकारेण अवान्‍तरकार्याणाम् उत्‍पादक: भवति । इदं फलसिद्धे: प्रथमकारणं मन्‍यते । यथा - रत्‍नावल्‍यां अनुकूलदैवेन अनुमोदित: यौगन्‍धरायणस्‍य क्रिया बीजम् रत्‍नावल्‍या: प्राप्ति: तस्‍य फलं चास्ति ।


इति

टिप्पणियाँ