भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय:
।।साहित्यदर्पण 6/39।।
संस्कृतबहुलव्यापार: य: पुरुषस्याश्रित: स्यात् न तु महिलाया: सा वृत्ति: भारती इति कथ्यते ।
अाचार्यभरतस्य शब्देषु -
या वाक्प्रधाना पुरुषोपयोज्या स्त्रीवर्जिता संस्कृतवाक्ययुक्ता ।
स्वनामधेयैर्भरतै: प्रयुक्ता सा भारती नाम भवेत्तु वृत्ति: ।।
अस्या: वृत्ते: भेदचतुष्टय: भवति ।
- प्ररोचना
- वीथी
- प्रहसन
- आमुख: च
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ