श्रृंगारे कैशिीकी, वीरे सात्वत्यारभटी पुन: । 
रसे रौद्रे च वीभत्से, वृत्ति: सर्वत्र भारती ।। 
चतस्रो वृत्तयो ह्येता:, सर्वनाट्यस्य मातृका: । 
स्युर्नायकादिव्यापार विशेषा नाटकादिषु ।। 
।।साहित्यदर्पण 6/122,123।।
नायकनायिकादीनां व्यापारविशिष्टम् एव नाटके वृत्ति: इति कथ्यते । श्रृंगाररसे मुख्यत: 'कैशिकी' वृत्ति: भवति, वीर,रौद्र,वीभत्सरसेषु 'सात्वती'वृत्ति: 'आरभटी'वृत्तिश्च उपयुक्ता भवति । किन्तु 'भारती' वृत्ति: सर्वत्र योज्यते । एता: चतस्र: वृत्तय: सम्पूणस्य नाटकस्य उपजीव्यं भवन्ति ।
इति

 
 
 
 
0 टिप्पणियाँ