फलप्रधानोपायस्य प्रागुद्भिन्नस्य किंचन ।
गर्भो यत्र समुद्भेदो हासान्वेषणवान्मुहु: ।।
।।साहित्यदर्पण 6/78-79।।
मुखप्रतिमुखसन्धयो: किंचित् प्रकटफलप्रधानोपायस्य यत्र ह्रास: विकासश्च भवति तत्र गर्भसन्धि: । फलस्य अन्तर्निहितत्वात् इयं गर्भसन्धि: कथ्यते । फलस्य गर्भीकरणाद् गर्भ: ।।
भरतमुनिना उक्तम् -
उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञिता: ।।
इति
0 टिप्पणियाँ