विमर्शसन्धि:


यत्र मुख्‍यफलोपाय उद्भिन्‍नो गर्भतो*धिक:
शापाद्यै: सान्‍तरायश्‍च स विमर्श इति स्‍मृत: ।।
।।साहित्‍यदर्पण 6/79-80।।
यत्र मुख्यफलस्‍य उपाय: गर्भसन्‍धे: अपेक्षा अधिकोद्भिन्‍नं भवति किन्‍तु शापादिकारणात् विघ्‍नयुक्‍तं भवति तत्र विमर्शसन्धि: भवति । यथा - अभिज्ञानशाकुन्‍तलस्‍य चतुर्थांके - ''प्रियंवदे यद्यपि गान्‍धर्वेण विवाहेन निर्वृत्‍तकल्‍याणा प्रियसखी शकुन्‍तला संवृत्‍तेति .... '' इत्‍यादि अनुसूयाया: उक्ति:, तत: सप्‍तमांके शकुन्‍तलाया: प्रत्‍यभिज्ञानपर्यन्‍तं यावती कथा अस्ति शकुन्‍तलाया: विस्‍मरणरूपविघ्‍नेन युक्‍तमस्ति ।। 

इति

टिप्पणियाँ