फलप्रधानोपायस्य मुखसन्धिनिवेशिन:
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।।
।।साहित्यदर्पण 6/77-78।।
मुखसन्धौ निवेशितस्य फलप्रधानोपायस्य यत्र किंचित् लक्ष्य किंचितलक्ष्य उद्भेद: (विकास:) यत्र भवतु तत्र प्रतिमुखसन्धि: भवति । अर्थात् रूपकस्य प्रधानफलस्य साधककथानक: यस्मिन् कदाचित् लुप्यते कदाचित् दृष्यते सा प्रतिमुखसन्धि: कथ्यते । इयं सन्धि: प्रयत्ननामकी कार्यावस्थां बिन्दुनामकं च अर्थप्रकृतिं कार्यश्रृखलां अग्रे नीयते । यथा - रत्नावल्यां वत्सराजस्य सागरिकाया: च अनुरागं सुसंगतया विदूषकेन च ज्ञात: । चेत् तदनुरागं लक्ष्यं, चित्रफलकवृत्तान्तेन वासवदत्तया अनुमानं अलक्ष्यमस्ति ।
इति
0 टिप्पणियाँ