अभि, नि च उपसर्गपूर्वकं यदा विश् धातो: प्रयोग: भवति चेत् तस्याधारं कर्मसंज्ञकं भवति ।
उदाहरणम् -
अभिनिविशते सन्मार्गं ।
अत्र मार्गशब्दस्य आधारत्वात कर्मसंज्ञत्वमभवत् विशधातुना सह् अभि, नि उपसर्गयो: तेन सार्धं प्रयोगकारणात् । यदि तौ उपसर्गौ सहैव न स्याताम् चेत् वाक्यस्वरूपं किमपि अन्यत् भवेत् ।
यथा - निविशते सन्मार्गे ।
अत्र विश् धातुना सह केवलं नि उपसर्गं योजितं तेन् तत्र कर्मत्वं न जातम् । अपितु अधिकरणम् ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें