तथायुक्‍तं चानीप्सितं - द्वितीयाविभक्ति: ।

तथायुक्‍तं चानीप्सितम् 

कर्तु: अभीप्सितपदार्थेन सह येषां सामीप्‍यं सर्वाधिकं  भवतु तेषु अपि कर्मकारकम् एव भवति । अर्थात् कर्तु: यदभीप्सितकर्म भवति तेन सह सामीप्‍यभावेन यत् पदार्थं तिष्‍ठति तेन सह अपि कर्मव्‍यवहार: एव भवति ।

यथा - ग्रामं गच्‍छन् तृणं स्‍पृशति । 

    अत्र ग्राम शब्‍दे तु कर्मत्‍वम् अस्ति कर्तुरभीप्सितत्‍वात् किन्‍तु तृणस्‍पर्शनं तु अभीप्सितं नैव तथापि तत्रापि कर्मत्‍वं भवति कर्मेण सह सामीप्‍यकारणात् ।

इतोपि

ओदनं भुंजानो विषं भुंक्‍ते । 

    अत्र ओदनं तु भोक्‍तुं कर्तु: इच्‍छा अस्ति अत: तत्र कर्मकारकं भवति, किन्‍तु विषं कस्‍य प्रियं । तथापि विषशब्‍दे अपि कर्मकारकत्‍वम् एव तस्‍य ओदनेन सह समीपत्‍वात् । 

इति

टिप्पणियाँ