गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (वार्तिकम्)
गत्यर्थक (गम्, इण आदि), बुद्ध्यर्थक (ज्ञा, विद्, बुध् आदि) प्रत्यवसानार्थक (भक्ष्, भुज् आदि) शब्दकर्मक तथा अकर्मक (स्था, आस्, शीड्. आदि) धातूनां अण्यन्तावस्थायां (सामान्य अवस्था) य: कर्ता भवति स: ण्यन्तावस्थायां (प्रेरणार्थक अवस्था) कर्मसंज्ञकं भवति तत्र च द्वितीया विभक्ति: योज्यते ।उदाहरण -
साधारण (अण्यन्तावस्था) |
प्रेरक (ण्यन्तावस्था) |
शत्रव: स्वर्गमगच्छन् | हरि: शत्रून् स्वर्गम् अगमयत् |
देवा अमृतमाश्नन् | हरि: देवान् अमृतमाशयत् |
उक्तवाक्ययो: शत्रु, देव च साधारणावस्थायां कर्ता आस्ताम् किन्तु ण्यन्तावस्थायां कर्म अभवताम् । तदर्थं तेषु द्वितीयाविभक्ति: जाता ।
इति
टिप्पणियाँ
एक टिप्पणी भेजें