तृतीयार्थे - कर्मप्रवचनीय संज्ञा, द्वितीया विभक्ति:


तृतीयार्थे ।

तृतीया अर्थज्ञापक: 'अनु' उपसर्ग: कर्मप्रवचनीयसंज्ञक: भवति । अर्थात् कर्मप्रवचनीय 'अनु' उपसर्गस्‍य प्रयोग: सन् तृतीया अर्थज्ञापक: शब्‍द: द्वितीयाविभक्‍तौ भविष्‍यति न तु तृतीया ।

उदाहरणम् -

नदीमन्‍ववसिता सेना ।

अस्मिन् उदाहरणे नदीशब्‍देन सह तृतीय भवेत्, किन्‍तु अत्र अनु उपसर्गस्‍य कर्मप्रवचनीय संज्ञा अस्ति उपर्युक्‍तेन सूत्रेण, चेत् नदीशब्‍दे द्वितीयाप्रयोग: क्रियते न तु तृतीया ।


इति

टिप्पणियाँ