चतुर्थी विभक्ति: - सम्‍प्रदानकारकम् ।।



सूत्रम् -  कर्मणा यमभिप्रैति स सम्‍प्रदानम् ।

दानकर्मणा कर्ता यं सर्वाधिकं इच्‍छति अर्थात् दानकर्मणा यस्‍मै सन्‍तोषं दातुमिच्‍छति तत् पदार्थं सम्‍प्रदानमिति कथ्‍यते ।

उदाहरणम् -
विप्राय गां ददाति ।

टिप्‍पणं - विशेषक्रियया अपि योभिप्रैत: सोपि सम्‍प्रदानमेव । यथा - पत्ये शेते (पति के लिये सोती है) । अत्र 'पति' शब्‍दे सम्‍प्रदानं क्रियाविशेषत्‍वात् ।

सूत्रम् - चतुर्थी सम्‍प्रदाने ।
वृत्ति: - अनभिहिते सम्‍प्रदाने चर्तु‍थी स्‍यात् ।

अनुक्‍तसम्‍प्रदानकारके चतुर्थी विभक्ति: प्रयुज्‍यते ।

उदाहरणम् -
ब्राह्मणाय गां ददाति ।
मह्यं पुस्‍तकं देहि ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें