कमेरनिषेध: .... वार्तिकम् ।।


वार्तिकम् - कमेरनिषेध: ।।

उक-प्रत्‍ययान्‍त कम् धातुना सह षष्‍ठी विभक्‍ते: निषेध: नैव भवति ।

उदाहरणम् - 
लक्ष्‍म्‍या: कामुको हरि: - लक्ष्‍मी की कामना करने वाले हरि ।।

अत्र उक-प्रत्‍ययान्‍त-कम् धातो: प्रयोगे लक्ष्‍मी इत्‍यस्मिन् शब्‍दे षष्‍ठी विभक्ति: अभवत् ।

हिन्‍दी - 
उक प्रत्‍ययान्‍त कम् धातु के साथ षष्‍ठी विभक्ति का निषेध नहीं होता है ।

वार्तिकम् - द्विष: शतुर्वा ।।

शतृ-प्रत्‍ययान्‍त द्विष् धातो: योगे षष्‍ठी, द्वितीया च विभक्‍ती भवत: ।

उदाहरणम् - 
मुरस्‍य मुरं वा द्विषन् - मुर नामक राक्षस का द्वेषी । 

हिन्‍दी - 
शत्-प्रत्‍ययान्‍त द्विष् धातु के योग में षष्‍ठी व द्वितीया दोनो विभक्ति होती हैं ।

इति

टिप्पणियाँ