रामौ (प्रथमा विभक्ति:, द्विवचनम्) - रूपसिद्धि: ।।



रम् + घञ् = राम ।।
रम् धातुना स‍ह कृदन्‍त-घञ् प्रत्‍ययं संयोज्‍य राम-प्रातिपदिकशब्‍द:।
(रम् धातु से कृदन्‍त घञ् प्रत्‍यय लगाकर राम शब्‍द की निष्‍पत्ति)

राम =
अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम़्, कृत्तद्धितसमासाश्‍च सूत्राभ्‍यां रामशब्‍दस्‍य प्रातिपदिकसंज्ञा । 
स्‍वौजस्मौट्. सूत्रेण सुपविधानम् । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रेभ्‍य: सुप् प्रत्‍ययविधानं प्रातिपदिकात् अनन्‍तरम् । 
द्वयेकयोर्द्विवचनैकवचने सूत्रेण प्रथमा-द्विवचनस्‍य विवक्षायां सुप् प्रत्‍ययात् प्रथमाद्विवचनं औ प्रत्‍यययोजनम् ।
(अर्थवद. तथा कृत्‍तद्धित. सूत्रों से राम की प्रातिपदिक संज्ञा ।  स्‍वौजस. सूत्र से राम प्रातिपदिक के साथ सुप् विधान । ड्.याप्‍प्रातिपदिकात्, प्रत्‍यय:, परश्‍च सूत्रों के द्वारा प्रातिपदिक के बाद सुप् प्रत्‍यय विधान । द्वयेकयो. सूत्र से प्रथमा द्विवचन की विवक्षा में सुप् प्रत्‍ययों में से प्रथमा द्विवचन औ प्रत्‍यय का विधान)


राम + औ =
प्रथमयो: पूर्वसवर्ण: सूत्रेण अ, औ इत्‍ययो: स्‍थाने पूर्वसवर्णदीर्घ-एकादेश: । किन्‍तु नादिचि सूत्रेण अस्‍य पूर्वसवर्णदीर्घ-एकादेशस्‍य बाध: । वृद्धिरेचि सूत्रेण अ, औ इत्‍ययो: मेलनेन वृद्धि: (अ + औ = औ) ।
(प्रथमयो:. सूत्र से अ तथा औ के स्‍थान पर पूर्वसवर्णदीर्घ एकादेश, किन्‍तु नादिचि से इस पूर्वसवर्णदीर्घ का निषेध । वृद्धिरेचि सूत्र से अ और औ को मिलाकर दोनों के स्‍थान पर औ वृद्धि आदेश ।)

रामौ
इति सिद्धम्




टिप्‍पणम् - 
पूर्वसवर्णदीर्घ-एकादेश: किम् ? पूर्वसवर्णदीर्घ-एकादेश: इत्‍युक्‍ते प्रथमपदस्‍य अन्तिमवर्ण: यदि लघु: स्‍यात् पुनश्‍च परपदस्‍य प्रथमवर्ण: स्‍वरेषु किमपि स्‍यात् चेत् द्वयो: स्‍थाने प्रथमपदस्‍य अन्तिमवर्णस्‍य दीर्घस्‍वरूपस्‍य आदेश: । 
उदाहरणम् - 
राम शब्‍दस्‍य अन्तिमवर्ण: = राम् + अ
अस्‍य अनन्‍तरं प्रथमा-द्विवचनस्‍य औ प्रत्‍यय: । 
राम्, अ + औ ।
सम्‍प्रति अत्र अ + औ इत्‍ययो: स्‍थाने पूर्वसवर्णदीर्घ आदेश: इत्‍युक्‍ते + औ इत्‍ययो: पूर्वतर: वर्ण: अ इति अस्ति । चेत् + औ इत्‍ययो: स्‍थाने अ आदेश: पुनश्‍च सवर्णदीर्घ इत्‍युक्‍ते अकारस्‍य दीर्घ चेत् 'आ' इति । 
तर्हि अनेन सूत्रेण राम + औ इत्‍ययो: स्‍थाने रामा इति अभविष्‍यत् यदि नादिचि सूत्रेण अस्‍य निषेध: न अभविष्‍यत् चेत् ।
(पूर्वसवर्णदीर्घ-एकादेश से तात्‍पर्य है कि प्रथमपद के अन्तिम वर्ण और दूसरे पर के प्रथम वर्ण इन दोनों के ही स्‍थान पर प्रथम पद के अन्तिम वर्ण का दीर्घ स्‍वरूप हो जाना ।
उदाहरण के लिये राम शब्‍द का अन्तिम वर्ण है अ (राम् + अ) । इसके सम्‍मुख है प्रथमा द्विवचन का औ प्रत्‍यय । अत: 'अ' तथा 'औ' दाेनों के स्‍थान पर पूर्वसवर्ण इत्‍युक्‍ते 'अ' तथा 'अ' का दीर्घ अर्थात् 'आ' हो जाता तथा रूप बनता 'रामा' यदि नादिचि सूत्र से इसका बाध न किया जाता तो ।



उपर्युक्‍तेषु सूत्रेषु प्रमुखसूत्राणां विवरणम् आवश्‍यकतानुसारम् अध: पश्‍यन्‍तु ।




1-अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम् ।।1/2/45।।
2-कृत्‍तद्धितसमासाश्‍च ।।1/2/46।।  
3-स्‍वौजस्मौट्छष्‍टाभ्‍यांभिस्डे.भ्‍यांभ्‍यस्ड.सिभ्‍यांभ्‍यस्ड.सोसाम्ड्.योस्‍सुप् ।।04/01/02।।
4-ड्.याप्‍प्रातिपदिकात्  ।।04/01/01।। प्रत्‍यय:        ।।03/01/01।।परश्‍च          ।।03/01/02।।
5-द्वयेकयोद्विवचनैकवचने ।।01/04/22।।   विरामोSवसानम्  ।।01/04/110।।
6-ससजुषो रु: ।।08/02/66।। 
7-खरवसानयोर्विसर्जनीय: ।।08/03/15।।
8- उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।
9- तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।
10- सरूपाणामेकशेष एकविभक्‍तौ ।।
 
 
 



इति
इति

टिप्पणियाँ

एक टिप्पणी भेजें