महाकवि भट्टनारायण: ।।



कविनाम - भट्टनारायण:।
आश्रित: - बंगदेशस्‍य (बंगाल) सेनवंशस्‍य प्रवर्तक: गौडाधिपति 'आदिसूर:' ।
उप‍ाधि: - कवेर्मृगराजलक्ष्‍मण:
वर्ण: - ब्राह्मण:
गोत्रम् - शाण्डिल्‍य
स्थितिकालम् - 750-850 अनुमित: ।
शास्‍त्रज्ञानम् - योग, सांख्‍य, वैष्‍णवदर्शन, छन्‍दशास्‍त्र, अलंकारशास्‍त्र, वैदिकयज्ञज्ञानम् ।
पिता - अज्ञात
माता - अज्ञात
गुरु - अज्ञात
जन्‍मस्‍थानम् - कान्‍यकुब्‍ज: (कन्‍नौज)

निवासस्‍थानम् - बंगदेश: (बंगाल)
काव्‍यकृतय: - वेणीसंहार-नाटकम्
किम्‍वदन्‍तय: -
1- महाकवि भट्टनारायण: कान्‍यकुब्‍ल प्रदेशस्‍य शाण्डिल्‍यगोत्रीय ब्राह्मण: आसीत् । बंगदेशस्‍य सेनवंशप्रवर्तक गोडाधिपति आदिसूर: वैदिकानुष्‍ठानं कारितुं कान्‍यकुब्‍जात् एनं पंचब्राह्मणै: सह आहूतवान् । एष: तेषु ब्राह्मणेषु प्रधानतम: आसीत् । दक्षिणास्‍वरूपेण आदिसूर: एतस्‍मै पंचग्रामान् अददात्, सभापण्डितरूपेण चाभूषयत् । कालान्‍तरे भट्टनारायण: अपि बंगालराज्‍ये एकस्‍य राजवंशस्‍य प्रवर्तक: अभूत् ।

2- बंगराजघटकानुसारं 'आदिसूर:' भगवन्‍तं प्रसादयितुमेकं यज्ञं कर्तुमिच्‍छति स्‍म् । तेन स: प्रख्‍यातकान्‍यकुब्‍जीयब्राह्मणं भट्टनारायणम् आमन्त्रितवान् ।

3- एकदा वंगराज्‍ये अनावृष्टिरभवत् । तन्निवारणाय वंगराज आदिसूर: भट्टनारायणं कान्‍यकुब्‍जात् आहूतवान् । भट्टनारायणेन कृतेन यज्ञेन अकालस्‍य समाप्तिरभवत् ।

4- कान्‍यकुब्‍जदेशे बौद्धानाम् अत्याचारं दृष्‍ट्वा खिन्‍न: सन् भट्टनारायण: स्‍वयमेव कान्‍यकुब्‍जं परित्‍यज्‍य बंगदेशं गत: । तत्रैव स्‍थायिरूपेण अवसत् ।

एतेषु सर्वाधिकं प्रामाणिकं प्रथममतमेव गृह्यते विद्वद्भि: ।

इति

टिप्पणियाँ