जयादित्‍य-वामन : वैयाकरण-परिचय: ।।



वैयाकरणनाम - जयादित्‍य-वामनौ (जयादित्‍यश्‍च, वामनश्‍च एतौ द्वौ वैयाकरणौ व्‍याकरणपरम्‍परायाम् समष्टिरूपेण व्‍यव‍हृतौ ।)
आश्रित: - अज्ञात
उप‍ाधि: - काशिकाकार
वर्ण: -
गोत्रम् - 
स्थितिकालम् - 600ई.-660ई. (अनुमानितम्)
शास्‍त्रज्ञानम् -
पिता - अज्ञात
माता - अज्ञात
गुरु - अज्ञात
जन्‍मस्‍थानम् -

निवासस्‍थानम् -
काव्‍यकृतय: - काशिका (अष्‍टाध्‍यायी-टीका)
  • काशिकाटीकायां अष्‍टौ अध्‍याया: सन्ति । 
  • प्रारम्भिकपंचाध्‍यायानां कर्ता जयादित्‍य:, अन्तिम-त्रयाणाम् अध्‍यायानां कर्ता आचार्य-वामन: अस्ति इति विदुषां मतम् ।
  • अष्‍टाध्‍याय्या: सर्वप्रसिद्धटीका इयमस्ति । 
  • सम्‍भवत: काश्‍यां (वाराणस्‍यां) लिखिता तदर्थमेव अस्‍या: नाम काशिका इति अभवत् । 
  • सृष्टिधराचार्येण भाषावृत्‍ते: व्‍याख्‍यायाम् काशिका इत्‍यस्‍या: अर्थ: ''काशयति प्रकाशयति सूत्रार्थमिति काशिका'' कृतास्ति ।
  • अस्‍यां टीकायामुपरि आचार्य‍ जिनेन्‍द्रबुद्धि: काशिकाविवरणपंजिका उत न्‍यास इति नाम्‍नी टीका अथ च हरदत्‍त मिश्र: पदमंजरी इति टीका कृतवान् । अन्‍ये बहव: टीकाग्रन्‍था: अस्‍य ग्रन्‍थस्‍योपरि प्राप्‍यन्‍ते ।
किम्‍वदन्‍तय: -

इति

टिप्पणियाँ

एक टिप्पणी भेजें