वैयाकरण आचार्य वरदराज - वैयाकरण परिचय: ।।



कविनाम - आचार्य वरदराज

स्थितिकालम् - प्रायेण 1475 ई. (अनुमानित:)
शास्‍त्रज्ञानम् - व्‍याकरणम्

पिता - दुर्गातनय:
माता - अज्ञात
गुरु - भट्टोजिदीक्षित:

जन्‍मस्‍थानम् - महाराष्‍ट्रम्

निवासस्‍थानम् - महाराष्‍ट्रम्

काव्‍यकृतय: - लघुसिद्धान्‍तकौमुदी, मध्‍यसिद्धान्‍तकौमुदी, सारसिद्धान्‍तकौमुदी, गीर्वाणपदमंजरी

अन्‍यपरिचय: -
  • वरदराजेन सिद्धान्‍तकौमुदीं सरलीकर्तुं लघुसिद्धान्‍तकौमुदी, मध्‍यसिद्धान्‍तकौमुदी च ग्रन्‍थद्वयं कृतम् ।
  • लघुसिद्धान्‍तकौमुद्यां 1277 सूत्राणि, मध्‍यसिद्धान्‍तकौमुद्यां च 2315 सूत्राणि संकलितानि सन्ति ।
  • लघुसिद्धान्‍तकौमुद्या: क्रम: अधिकयुक्तिसंगत: अस्ति ।
  • लघुकौमुद्या: क्रम: अधोक्‍त: अस्ति - 
    • संज्ञाप्रकरणम् 
    • सन्धि: 
    • सुबन्‍त: 
    • अव्‍यय: 
    • तिड.न्‍त:
    • प्रक्रिया
    • कृदन्‍त: 
    • कारकम्
    • समास:
    • तद्धित: 
    • स्‍त्री-प्रत्‍यय: 
  •  मध्‍यसिद्धान्‍तकौमुद्याम् वरदराजेन श्रीभट्टोजिदीक्षितस्‍य स्‍मरणं कृतमस्ति -
    नत्‍वा वरदराज: श्रीगुरुन् भट्टोजिदीक्षितान् ।
    करोति पाणिनीयानां मध्‍यसिद्धान्‍तकौमुदीम् ।।
  • सारसिद्धान्‍तकौमुद्याम् अनेन स्‍वपितु: स्‍मरणं कृतमस्ति -
    कृता वरदभदृश्रीदुर्गातनयसूनुना । वेदवेदप्रवेशाय सारसिद्धान्‍तकौमुदीम् ।
  • मध्‍यसिद्धान्‍तकौमुदी वैदिक-व्‍याकरणसहित: एक: विस्‍तृतव्‍याकरणग्रन्‍थ: अस्ति ।
  • गीर्वाणपदमंजरी प्रश्‍नोत्‍तरीशैल्‍यां लिखित: एक: सामाजिक:, साहित्यिकश्‍च विषयै: सम्‍बन्धित: ग्रन्‍थ: अस्ति ।

किम्‍वदन्‍तय: -
      वरदराजाचार्यस्‍य विषये एका किम्‍वदन्ति: सुप्रसिद्धा वर्तते । बाल्‍यकाले एष: मूढ: आसीत् । यस्मिन् गुरुकुले एष: पठति स्‍म तत्र बालका: अस्‍य परिहासं कुर्वन्ति स्‍म यत् यदा ब्रह्मा बुद्धे: आवण्‍टनं कुर्वन्‍नासीत् तदा एष: शयनं कुर्वन्‍नासीत् ।
      एकदा गुरु: तं प्रति उक्‍तवान् । भो:, भवत: हस्‍ते अध्‍ययनस्‍य रेखा एव नैव वर्तते चेत् भवान् अध्‍ययनं कर्तुं न शक्‍नोति । गृहं गच्‍छतु । मन्‍दबुद्धि: स्‍वस्‍यूतादिकं स्‍वीकृत्‍य तत: गृहं प्रति प्रस्थित: । मार्गे जलं पातुं एकस्‍य कूपस्‍य समीपं गत: । तत्र अवधानेन दृष्‍ट: । कूपस्‍य शिलाफलके यत्र तन्‍तो: गमनागमनं भवति स्‍म तत्र एक: चिह्न: अंकित: आसीत् । तत् चिह्नं दृष्‍ट्वा स: अचिन्‍तयत् यदि एकेन सूत्रेण शिलापट्टे चिह्नं भवितुमर्हति चेत् कथमहं ज्ञानं प्राप्‍तुं न शक्‍नुयाम् ।
      एतत् विचिन्‍त्‍य स: तत: एव प्रतिनिवृत्‍त: । पाठशालां प्राप्‍य स: पुन: गुरवे निवेदयत् । गुरो अहं पठितुम् इच्‍छामि । पठिष्यामि चापि । भवान् केवलं मां उपदिशतु । कालान्‍तरे स: एव प्रसिद्ध: आचार्य: वरदराजाचार्य-अभिधानेन अभिहित: ।

हिन्‍दी - 
  • वरदराजाचार्य ने सिद्धान्‍तकौमुदी को सरल करते हुए लघुसिद्धान्‍तकौमुदी और मध्‍यसिद्धान्‍तकौमुदी ग्रन्‍‍थों की रचना की । 
  • लघुसिद्धान्‍तकौमुदी में 1277 तथा मध्‍यसिद्धान्‍तकौमुदी में 2315 सूत्र हैं । 
  • लघुसिद्धान्‍तकौमुदी का क्रम अधिक प्रासंगिक है । 
  • लघुसिद्धान्‍त कौमुदी का क्रम उपर्युक्‍त है । 
  • मध्‍यसिद्धान्‍तकौमुदी में वरदराजाचार्य ने अपने गुरु श्री भट्टोजिदीक्षित का स्‍मरण किया है ।
  • सारसिद्धान्‍तकौमुदी में इन्‍होंने अपने पिता श्री दुर्गातनय का स्‍मरण किया है । 
  • मध्‍यसिद्धान्‍त्‍ा कौमुदी वैदिक व्‍याकरण सहित एक विस्‍तृत व्‍याकरण ग्रन्‍थ है । 
  • गीर्वाणपदमंजरी प्रश्‍नोत्‍तर शैली में लिखा गया एक सामाजिक, साहित्यिक आदि विषयों से सम्‍बन्धित ग्रन्‍थ है ।
किम्‍वदन्‍ि‍त -
        वरदराजाचार्य के विषय में एक किम्‍वदन्ति प्रसिद्ध है । यह बाल्‍यकाल में अत्‍यन्‍त मूर्ख थे । इनकी पाठशाला में सारे बच्‍चे इन्‍हें चिढाते थे कि जब ब्रह्मा बुद्धि बांट रहा था तब तू सो रहा था । 
        अन्‍तत: गुरु जी ने हार कर इन्‍हे घर जाने के लिये कह दिया । जब ये घर जाने लगे तो मार्ग में एक कुएं पर प्‍यास बुझाने के लिये रुके । वहां इनका ध्‍यान उस शिलापट्ट पर पडा जिससे होकर रस्‍सी आती जाती थी । उसपर रस्‍सी का निशान बना था । इसे देखकर इनके मन में विचार आया कि यदि शिलापट्ट पर रस्‍सी से निशान पड सकता है तो फिर मुझे विद्या क्‍यूँ नही आ सकती । वहां से यह फिर से पाठशाला लौट आये । और गुरु जी से पढाने के लिये निवेदन किया । आगे चलकर यही वरदराजाचार्य के नाम से प्रसिद्ध हुए और व्‍याकरण के महत्‍वपूर्ण ग्रन्‍थों का प्रणयन किया ।


इति

टिप्पणियाँ