अन्‍ये केचन् वैयाकरणा: ।




  • वृषभदेव: - वाक्‍यपदीयस्‍य प्रथमकाण्‍डे (ब्रह्मकाण्‍डे) टीका ।
  • पुण्‍यराज: - वाक्‍यपदीयस्‍य द्वितीये काण्‍डे टीका ।
  • हेलाराज: (11तमे ईसवीये) - वाक्‍यपदीयस्‍य त्रिषु काण्‍डेषु टीका । सम्‍प्रति केवलं तृतीयकाण्‍डे एव टीका उपलभ्‍यते ।
  • मण्‍डनमिश्र: (695वि.) - स्‍फोटवादस्‍य उपरि 'स्‍फोटसिद्धि:' नामक: एक: प्रौढग्रन्‍थ: रचित: । शंकराचार्येण अस्‍य शास्‍त्रार्थ: अपि संजात: यस्मिन् पराजित: सन् अद्वैतवादं स्‍वीकृतवान् । नूतननाम सुरेश्‍वराचार्य: इति अंगीकृतवान् ।
  • कौण्‍डभट्ट: (1550-1600 वि.) - वैयाकरणभूषण, वैयाकरणभूषणसार ग्रन्‍थयो: रचयिता । भट्टोजिदीक्षितकृत कारिकाणां व्‍याख्‍याग्रन्‍थौ द्वाै अपि ।
  • भट्टि: - भट्टिकाव्‍यस्‍य रचयिता । केषुचित् स्‍थानेषु अस्‍य अपरनाम भर्तृहरि इति उक्‍तमस्ति । भट्टिकाव्‍यस्‍य वास्‍तविकनाम 'रावणवध' इति अस्ति ।
  • दयानन्‍दसरस्‍वती (1881-1940 वि.) - अष्‍टाध्‍याय्यां 'अष्‍टाध्‍यायीभाष्‍य' नामकी विस्‍तृतव्‍याख्‍या कृता । एष: औदीच्‍यब्राह्मणकुले टंकारा (काठियावाड) क्षेत्रे उत्‍पन्‍न: । पितु: नाम कर्शनजी तिवाडी आसीत् । आर्यसमाजस्‍य संस्‍थापकोयं वर्तते । अन्‍यपुस्‍तकानि - ऋग्‍वेदभाष्‍यम्, यजुर्वेदभाष्‍यम्, ऋग्‍वेदभाष्‍यभूमिका, सत्‍यार्थप्रकाश:, संस्‍कारविधि:

इति

टिप्पणियाँ