महात्मा भर्तृहरि: - वैयाकरण परिचय: ।।



वैयाकरणनाम - भर्तृहरि:
आश्रित: - एष: स्‍वयमेव राजा आसीत् पुनश्‍च अस्‍य लघुभ्राता आसीत् महाराजविक्रमादित्‍य: एवं जनश्रुतिद्वारा ज्ञायते ।
उप‍ाधि: - महायोगी, महावैयाकरण
वर्ण: - क्षत्रिय:

स्थितिकालम् - प्रायेण 340 ई. (अनुमानितं विवादितं च)
शास्‍त्रज्ञानम् - वेदा:, वेदांगानि, दर्शनानि, योगम्, व्‍यवहारशास्‍त्रम् च 
पिता - अज्ञात
माता - अज्ञात
गुरु - वसुरात (पुण्‍यराजमतानुसारम्)
जन्‍मस्‍थानम् - उज्‍जयिनी (उज्‍जैन)

निवासस्‍थानम् - उज्‍जयिनी (उज्‍जैन)
काव्‍यकृतय: - वाक्‍यपदीयम् (व्‍याकरणग्रन्‍थ:), महाभाष्‍यदीपिका (महाभाष्‍यटीका), वेदान्‍तसूत्रवृत्ति:, मीमांसासूत्रवृत्ति:, नीतिशतकम्, श्रृंगारशतकम्, वैराग्यशतकम्

किम्‍वदन्‍तय: -
  • विक्रमादित्‍यस्‍य ज्‍येष्‍ठभ्राता आसीत् एष:। 
  • अस्‍य द्वे पत्‍न्‍यौ आस्‍ताम् । 
  • एकस्‍या: नाम पिंगला, अपरस्‍या: नाम अनंगसेना आसीत् । 
  • अनंगसेनायाम् अस्‍य विशेषप्रीतिरासीत् । 
  • अनंगसेनाया: प्रीति: अस्‍यैव सेनापते: उपरि आसीत् ।
  • कश्‍चन् महात्‍मा एतस्‍मै अमृतफलमददात् । एष: तत्‍फलम् अनंगसेनायै प्रददात् । अनंगसेना सेनापतये प्रदत्‍तवती । सेनापति: कांचन् गणिकां दत्‍तवान् । सा गणिका तत्‍फलम् पुन: भर्तृहरये प्रतिदत्‍तवती । अनेन राज्ञ: व्‍यामोह: नष्‍ट: अभवत् । तेन स: सन्‍यासं स्‍वीकृतवान् ।
  • तस्‍य प्रसिद्ध: श्‍लोक: --
यां चिन्‍तयामि सततं मयि सा विरक्‍ता
सोप्‍यन्‍यमिच्‍छति जनं स जनोन्‍यसक्‍त: ।

अस्‍मत्‍कृते च परिशुष्‍यति काचिदन्‍या 
धिक्‍तांच तं च मदनं च इमां च मां च ।।

इति

टिप्पणियाँ

एक टिप्पणी भेजें