काश्‍चन सूचना: राष्‍ट्रीयपात्रतापरीक्षाविषये ।।


हिन्‍दीभाषायां पठितुमत्र आघात: कुर्वन्‍तु  

         राष्‍ट्रीयपात्रतापरीक्षा (नेट) इत्‍येतस्मिन् विषये ये जना: आवेदनपत्रं पूरयितुमिच्‍छन्ति ते इदानीं पूरयितुं शक्‍नुवन्ति । अस्‍य आवेदनार्थ पूर्वं चालानपत्रं जालपुटत: गृह्य पार्श्‍वेस्थितभारतीयस्‍टेटबैंकशाखात् 450 रूप्‍यकात्‍मकं सामान्‍य जनानां कृते आवेदनशुल्‍कं दत्‍वा आवेदनपत्रं पूरय‍न्‍तु । 
  आवेदनं जालपुटेएव साक्षात् (आनलाइन) पूरयित्‍वा तस्‍य द्वा प्रति: निष्‍काष्‍य विश्‍वविद्यालयअनुदानआयोगसंस्‍थायां समर्पणीयम् भविष्‍यति । अस्मिन् विषये अधिकं अस्‍य आधिकारिके जालपृष्‍ठे  गच्‍छन्‍तु । अत्र गत्‍वा पूर्वं सामान्‍यपरिचयं स्‍वीकृत्‍य यथानिर्दिष्‍टं पालयतु ।। 
      आवेदनपत्रस्‍य (आनलाइन) अन्तिमतिथि: 25 अक्‍टूबर अस्ति । आवेदनपत्रस्‍य प्रतिप्रेषणस्‍य अन्तिमतिथि: 1 नवम्‍बर इति अस्ति ।। 




ये जना: इच्‍छुका: सन्ति ते कृपया शीघ्रतां सम्‍पादयेयु: ।।


भवदीय:-  आनन्‍द:

टिप्पणियाँ

  1. महोदय, वार्त्तामध्ये "द्वा प्रति: निष्‍काष्‍य विश्‍वविद्यालयअनुदानआयोगसंस्‍थायां समर्पणीयम् भविष्‍यति" इति वाक्यमिदं भ्रमात्मकमस्ति । प्रेषणकार्यं तु तत्संबंधी क्षेत्रीयकेन्द्रं/विश्वविद्यालयं प्रति करणीयं । साक्षात्‌ विश्‍वविद्यालयानुदानायोगसंस्‍थां प्रति प्रेषितं आवेदनपत्रं अस्वीकरणस्य पात्रं भविष्यति ।

    जवाब देंहटाएं

एक टिप्पणी भेजें