विश्वासः



कश्चन गिर्यारोहकः शिखरस्य समीपे एव कुत्रचित् मार्गभ्रष्टः जातः ।  शनैः शनैः रात्रिः जाता । चन्द्रः तारकाः च मेघाच्छादिताः आसन् । सः किमपि न द्रष्टुं शक्नोति स्म । अतः अन्धः इव सावधानतया चलन् आसीत् सः । तथापि अपघातः जातः । सः पतितः । गुरुत्वाकर्षणेन वेगेन अधः दऱ्यां पतन् आसीत् सः । इदानीं मृत्युः निश्चितः इति अमन्यत । तदैव अकस्मात् आघातेन तस्य कटिरज्जुः अतनोत् । सः वायौ अलम्बत । भयेन अकम्पत । भारेण कटिरज्जुभङगः भवेत् इति मत्वा सः उचैः आक्रन्दत् , " हे भगवन्, त्राहि माम् "
आकाशात् कश्चन ध्वनिः श्रुतः । " अहं रक्षणं करिष्यामि इति तव विश्वासः वा?"
"आम् भगवन्, त्वमेव रक्षितुं शक्नोषि । कृपया शीघ्रतां कुरु ।"
" उत्तमम् । झटिति तव कटिरज्जुं कर्तय ।"
" कटिरज्जुं कर्तयानि? एषा तु मम आधारा ।" गिर्यारोहकः भगवतः उपदेशं न अङगीकृतवान् । दृढहस्ताभ्यां रज्जुं गृह्णीतवान् । प्रातः संरक्षकदलं तत्र प्राप्नोत् ।
गिर्यारोहकस्य मृतदेहः हिमीभूय रज्ज्वा वायौ लम्बते स्म ।
पृथिव्याः उपरि एकफूट अंतरे!

टिप्पणियाँ

  1. प्रेरणादायिनी कथा

    सत्‍यमेव उक्‍तं, ईश्‍वर: विश्‍वासस्‍य नाम


    धन्‍यवाद:

    जवाब देंहटाएं
  2. एक बेहतरीन रचना । काबिले तारीफ़ शव्द संयोजन । बेहतरीन अनूठी कल्पना भावाव्यक्ति ।
    सुन्दर भावाव्यक्ति । साधुवाद ।

    जवाब देंहटाएं

एक टिप्पणी भेजें