वेदानां विभिन्नानि नामानि ।

new sanskritjagat

 

       वेदग्रन्‍थानां कानिचन् इतोपि नामानि सन्ति ।  वेदं श्रुति:, त्रयी, छन्‍दस्, निगम, आम्‍नाय, स्‍वाध्‍याय: च अपि कथ्‍यते ।

श्रुति: - गुरुमुखात् प्राप्‍ते सति श्रुति: इति कथ्‍यते ।

त्रयी - रचनात्रैविध्‍यकारणात् (ऋचा, यजुष्, सामन्) त्रयी इति कथ्‍यते ।

छन्‍दस् - छन्‍द: इत्‍युक्‍ते बन्‍धनं - छन्‍दान्सि छादनात् ।  छन्‍दान्सि मनोभावान् आच्‍छन्‍नं कुर्वन्ति ।  निघण्‍टौ छन्‍दस्‍य कान्ति इत्‍यपि अर्थ: प्राप्‍यते ।  पूजाया: अर्थे अपि छन्‍द: प्रयुज्‍‍यते ।  अग्रे छन्‍दस्‍य विशिष्‍टार्थ: साममन्‍त्राणां प्रति अभवत् ।

निगम - अस्‍यार्थ: वेदानां अर्थवत्‍ता इति अस्ति ।  एतत् नाम वेदानां गम्‍भीरअर्थवत्‍तां प्रकटयति ।

आम्‍नाय/समाम्‍नाय – 'म्‍ना' धातो: प्रयोग: अभ्‍यासार्थे भवति ।  इमौ वेदानां दैनन्दिनअभ्‍यासविषये वदत: ।

स्‍वाध्‍याय: - वेदानां प्रतिदिनं सम्‍यकरूपेण अध्‍ययनं भवति स्म अत: ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें