श्रवणं प्रथमं,श्रुति वाक्यमहो

श्रवणं प्रथमं,श्रुति वाक्यमहो,गुरुदेव मुखादनुभूतिमयम्।
कृपया परया परमात्मकृपा,स्वत एव विभाति मनस्यमले।।1
मननं च ततः सततं हृदये,तदनन्तरमाह्निक कर्मणि स्यात्।
भवने च वने पथिमध्यगते,चिति मात्रमहं रटनं सततम्।।2
(निज भासमहं रटनं सततम्)
भजने शयने वदने गमने,हसने श्वसने श्रवणे शमने।
अदने च तथा परितः भ्रमणे,श्रुति सार कथा भवितव्यमहो।।3
न निजो मम कोपि परोपि तथा,1अहमेव विभाति सदा भुवने।
अनुकूलतया प्रतिकूलतया,ममता प्रतिभाति सदा भुवने।।4
सरिताः च नगाः जलधिः तरवः,गगनः पवनः सलिलं वसुधा।
अनलः पशवश्च खगाः मनुजाः,मम रूपमहो मम रूपमहो।।5

तोटक छंद- अधरं मधुरं वदनं मधुरं,,,

द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ

एक टिप्पणी भेजें